|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.105. अध्यायः 105
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति ब्राह्मणस्वापहारस्यानर्थहेतुतायां दृष्टान्ततया नृगोपाख्यानकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
अत्रैव कीर्त्यते सद्भिर्ब्राह्मणस्वाभिमर्शने।
नृगेण सुमहत्कृच्छ्रुं यदवाप्तं कुरूद्वह॥ 13-105-1(85632)
निविशन्त्यां पुरा पार्थ द्वारवत्यामिति श्रुतिः।
अदृश्यत महाकूपस्तृणवीरुत्समावृतः। 13-105-2(85633)
प्रयत्नं तत्र कुर्वाणास्तस्मात्कूपाज्जलार्थिनः।
श्रमेण महता युक्तास्तस्मिंस्तोये सुसंवृते॥ 13-105-3(85634)
ददृशुस्ते महाकायं कृकलासमवस्थितम्।
तस्य चोद्धरणे यत्नमकुर्वंस्ते सहस्रशः॥ 13-105-4(85635)
प्रग्रहैश्चर्मपट्टैश्च तं बद्ध्वा पर्वतोपमम्।
नाशक्नुवन्समुद्धर्तुं ततो जग्मुर्जनार्दनम्॥ 13-105-5(85636)
खमावृत्योदपानस्य कृकलासः स्थितो महान्।
तस्य नास्ति समुद्धर्तेत्येतत्कृष्णे न्यवेदयन्॥ 13-105-6(85637)
स वासुदेवेन समुद्धृतश्च
पृष्टश्च कामान्निजगाद राजा।
नृगस्तदाऽऽत्मानमथो न्यवेदय-
त्पुरातनं यज्ञसहस्रयाजिनम्॥ 13-105-7(85638)
तथा ब्रुवाणं तु तमाह माधवः
शुभं त्वया कर्म कृतं न पापकम्।
कथं भवान्दुर्गतिमीदृशीं गतो
नरेन्द्र तद्ब्रूहि किमेतदीदृशम्॥ 13-105-8(85639)
शतं सहस्राणि गवां शतं पुनः
पुनः शतान्यष्टशतायुतानि।
नृप द्विजेभ्यः क्व नु तद्गतं तव॥ 13-105-9(85640)
नृगस्ततोऽब्रवीत्कृष्णं ब्राह्मणस्याग्निहोत्रिणः।
प्रोषितस्य परिभ्रष्टा गौरेका मम गोधने*****॥ 13-105-10(85641)
गवां सहस्रे संख्याता तदा सा पशुपैर्मम।
सा ब्राह्मणाय मे दत्ता प्रेत्यार्थमभिकाङ्क्षता॥ 13-105-11(85642)
अपश्यत्परिमार्गंश्च तां गां परगृहे द्विजः।
ममेयमिति चोवाच ब्राह्मणो यस्य साऽभवत्॥ 13-105-12(85643)
तावुभौ समनुप्राप्तौ विवदन्तौ भृशज्वरौ।
भवान्दाता भवान्हर्तेत्यथ तौ मामवोचताम्॥ 13-105-13(85644)
शतेन शतसङ्ख्येन गवां विनिमयेन वै।
याचे प्रतिग्रहीतारं स तु मामब्रवीदिदम्॥ 13-105-14(85645)
देशकालोपसम्पन्ना दोग्ध्री शान्ताऽतिवत्सला।
स्वादुक्षीरप्रदा धन्या मम नित्यं निवेशने॥ 13-105-15(85646)
कृशं च भरते सा गौर्मम पुत्रमपस्तनम्।
न सा शक्या मया दातुमित्युक्त्वा स जगाम ह॥ 13-105-16(85647)
ततस्तमपरं विप्रं याचे विनिमयेन वै।
गवां शतसहस्रं हि तत्कृते गृह्यतामिति॥ 13-105-17(85648)
ब्राह्मण उवाच। 13-105-18x(7109)
न राज्ञां प्रतिगृह्णामि शक्तोऽहं स्वस्य मार्गणे।
सैव गौर्दीयतां शीघ्रं ममेति मधुसूदन॥ 13-105-18(85649)
रुक्ममश्वांश्च ददतो रजतस्यन्दनांस्तथा।
न जग्राह ययौ चापि तदा स ब्राह्मणर्षभः॥ 13-105-19(85650)
एतस्मिन्नेव काले तु चोदितः कालधर्मणा।
पितृलोकमहं प्राप्य धर्मराजमुपागमम्॥ 13-105-20(85651)
यमस्तु पूजयित्वा मां ततो वचनमब्रवीत्।
नान्तः सङ्ख्यायते राजंस्तव पुण्यस्य कर्मणः॥ 13-105-21(85652)
अस्ति चैव कृतं पापमज्ञानात्तदपि त्वया।
चरस्व पापं पश्चाद्वा पूर्वं वा त्वं यथेच्छसि॥ 13-105-22(85653)
रक्षितास्मीति चोक्तं ते प्रतिज्ञा चानृता तव।
ब्राह्मणस्वस्य चादानं द्विविधस्ते व्यतिक्रमः॥ 13-105-23(85654)
पूर्वं कृच्छं चरिष्येऽहं पश्चाच्छुभमिति प्रभो।
धर्मराजं ब्रुवन्नेवं पतितोस्मि महीतले॥ 13-105-24(85655)
अश्रौषं पतितश्चाहं यमस्योच्चैः प्रभाषतः।
वासुदेवः समुद्धर्ता भविता ते जनार्दनः॥ 13-105-25(85656)
पूर्णे वर्षसहस्रान्ते क्षीणे कर्मणि दुष्कृते।
प्राप्लस्यसे शाश्वताँल्लोकाञ्जितान्स्वेनैव कर्मणा॥ 13-105-26(85657)
कूपेऽऽत्मानमधःशीर्षमपश्यं पतितं च ह।
तिर्यग्योनिमनुप्राप्तं न च मामजहात्स्मृतिः॥ 13-105-27(85658)
त्वया तु तारितोऽस्म्यद्य किमन्यत्र तपोबलात्।
अनुजानीहि मां कृष्ण गच्छेयं दिवमद्य वै॥ 13-105-28(85659)
अनुज्ञातः स कृष्णेन नमस्कृत्य जनार्दनम्।
विमानं दिव्यमास्थाय ययौ दिवमरिन्दमः॥ 13-105-29(85660)
ततस्तस्मिन्दिवं याते नृगे भरतसत्तम।
वासुदेव इमाञ्श्लोकाञ्जगाद कुरुनन्दन॥ 13-105-30(85661)
ब्राह्मणस्वं न हर्तव्यं पुरुषेण विजानता।
ब्राह्मणस्वं हृतं हन्ति नृगं ब्राह्मणगौरिव॥ 13-105-31(85662)
सतां समागमः सद्भिर्नाफलः पार्थ विद्यते।
विमुक्तं नरकात्पश्य नृगं साधुसमागमात्॥ 13-105-32(85663)
प्रदानं फलवत्तत्र द्रोहस्तत्र तथाऽफलः।
अपहारं गवां तस्माद्वर्जयेत युधिष्ठिर॥ ॥ 13-105-33(85664)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चाधिकशततमोऽध्यायः॥ 105 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-105-23 प्रतिज्ञा च कृता त्वयेति, त्रिविधस्ते व्यतिक्रम इति च.थ.ध. पाठः॥ 7-105-24 कृच्छ्रं चरिष्ये पापफलं भोक्ष्ये॥ 7-105-31 न हर्तव्यं क्षत्रियेण विशेषत इति थ.ध.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|